अन्तर्विषयाः
- १ श्लोकः
- २ पदच्छेदः
- ३ अन्वयः
- ४ शब्दार्थः
- ५ अर्थः
- ६ सम्बद्धसम्पर्कतन्तुः
- ७ सम्बद्धाः लेखाः
श्लोकः[सम्पादयतु]
अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन (जनुवरि २०१४) |
- ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते ।
- अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ॥ १२ ॥
अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य द्वादशः(१२) श्लोकः ।
पदच्छेदः[सम्पादयतु]
ज्ञेयं यत् तत् प्रवक्ष्यामि यत् ज्ञात्वा अमृतम् अश्नुते अनादिमत् परं ब्रह्म न सत् तत् न असत् उच्यते ॥ १२ ॥
अन्वयः[सम्पादयतु]
यत् ज्ञेयं तत् प्रवक्ष्यामि यत् ज्ञात्वा अमृतम् अश्नुते । अनादिमत् परं ब्रह्म न सत् । तत् न असत् उच्यते ।
शब्दार्थः[सम्पादयतु]
- ज्ञेयम् = ज्ञातव्यम्
- प्रवक्ष्यामि = विस्तरशः कथयामि
- ज्ञात्वा = अवबुध्य
- अमृतम् = मोक्षम्
- अश्नुते = अनुभवति
- अनादिमत् = आदिरहितम्
- परम् = उत्तमम्
- न सत् = न सत् भवति
- तत् = ब्रह्म
- न असत् = असत् अपि न भवति ।
अर्थः[सम्पादयतु]
यत् ज्ञातव्यं तत् विस्तरशः कथयामि यत् ज्ञात्वा मोक्षम् अनुभवति । परं ब्रह्म आदिरहितम् । तदिदं ब्रह्म विधिमुखेन प्रमाणविषयो न भवति, निषेधमुखेनापि न प्रमाणविषयो भवति ।
सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]
- भगवद्गीता (मूलश्लोकाः)
- भगवद्गीता
सम्बद्धाः लेखाः[सम्पादयतु]
- संस्कृतम्
- श्रीमद्भगवद्गीता
- शङ्कराचार्यः
- रामानुजाचार्यः